मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १४

संहिता

बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भ॑ः ।
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ॥

पदपाठः

बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ ।
अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥

सायणभाष्यम्

वसुक्रः अनयादित्यात्मानमिन्द्रं स्तौति । बृहन्महानादित्यः अच्छायः छायावर्जितः त- मोरहितइत्यर्थः अपलाशः पर्णरहितः पराशदनवर्जितोविनाशरहितइत्यर्थः । अर्वा सतगामी तस्थौ तिष्ठति । किञ्च माता वृष्टिप्रदानद्वारेण सर्वस्य जगतोनिर्माता विषितोविमुक्तः निरालंबनइत्यर्थः गर्भः त्रैलोक्यस्य गर्भभूतः आदित्यात्मेन्द्रः अत्ति हवींषि भक्षयति । यद्वा अनेन विनाशः लक्ष्यते पापानि नाशयति किं अन्यस्याः अदित्याख्यायादेवमातुः वत्समप- त्य भूतं आदित्यं रिहती आस्वादयन्ती उपजीवन्ती वर्धयन्ती मिमाय निर्मिमीते पूर्वस्यां दिश्यहन्यहनि उत्पादयतीत्यर्थः । कया भुवा केन भावेनाभिप्रायेण भक्त्या भयेन चेत्यर्थः धेनुर्द्यौः तं उदकस्याधारत्वात् क्षरितृत्वाच्च ऊधः स्थानीयमादित्यं निदधे स्थापयति यद्वा धेनुर्गौः ऊधोयथा तद्वदादित्यं द्यौर्धारयति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७