मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १५

संहिता

स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते ।
नव॑ प॒श्चाता॑त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्न॑ः ॥

पदपाठः

स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते ।
नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥

सायणभाष्यम्

अनयेन्द्रः प्रजापतिरूपेण स्तूयते सप्त स्सप्तसंख्याकाः वीरासः प्रजापतेः पुत्राविश्वामि- त्रादयः अधरात् प्रजापतेरधः कायादुदायन् उत्पन्नाबभूवुः अष्ट अष्टसंख्याकास्ते प्रसिद्धाः वालखिल्यादयः उत्तरात्तात् उत्तरात्कायप्रदेशात् समजग्मिरन् संजज्ञिरे । स्थिविमन्तः स्था- नवन्तः नव नवसंख्याकाभृगवः पश्चात्तात् पृष्ठतः आयन् आगताउत्पन्नाइत्यर्थः । तथा दश दशसंख्याकाअङ्गिरसः प्राक् अग्रतउत्पन्नाः सन्तः अश्नः अशनवतोद्युलोकस्य सानु उन्नत- प्रदेशं वितिरन्ति वर्धयन्ति । अपरआह सप्तसंख्योपेतावीरामरुतः अधरात् इन्द्रस्य दक्षिण- भागात् उदगमन् अष्टसंख्याकास्ते मरुतः उत्तरभागात्संगच्छन्ते स्थानवन्तो नवसंख्याका- स्ते मरुतः पृष्ठभागादागच्छन्ति दशसंख्याकास्ते अश्नः अशनवन्तइन्द्रस्य प्राक् प्रदेशस्थिताः समुच्छ्रितमुदकं तेजोवा वितरन्ति मरुतः प्रतिदिशमवस्थाय इन्द्रस्य सहायं कुर्वन्तीत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७