मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १६

संहिता

द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वन्ति॒ क्रत॑वे॒ पार्या॑य ।
गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नन्तं तु॒षय॑न्ती बिभर्ति ॥

पदपाठः

द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य ।
गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥

सायणभाष्यम्

दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये एकं मुख्यं कपिलं एतन्नामानं तं प्रसिद्धमृषिं कीदृशं समानं सदृशं केन सामर्थ्यात्प्रजापतिना हिन्वन्ति अवशिष्टाअङ्गि- रसः प्रेरयन्ति । किमर्थं क्रतवे यज्ञादिजगत्प्रवर्तनकर्मणे यद्वा सम्यक् ज्ञानलक्षणप्रज्ञानाय । कीदृशाय पार्याय परिसमापयितव्याय प्रणेतव्याय वा यज्ञादिकर्मणोपदेशनायेत्यर्थः माता प्रकृत्याख्या च वक्षणासु वक्षणाइति नद्यउच्यन्ते ताभिश्चात्रापोलक्ष्यन्ते प्रकृतिस्थासु सू- क्ष्मास्वप्सु सुधितं सुहितं प्रजापतिना स्थापितमित्यर्थः अवेनन्तं वेनतिः कान्तिकर्मा गति निवासमकामयमानं तादृशं प्रजापतेः गर्भं तुषयन्ती तुष्यंती सम्यक् ज्ञानान्युपदेष्टुं योग्यो- यमिति प्रीता सती बिभर्ति प्रजापतेर्नियोगाद्धारयति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८