मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् २०

संहिता

ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि ।
आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥

पदपाठः

ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।
आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥

सायणभाष्यम्

कार्यकारणयोरुपचारात् आत्मावैपुत्रनामसीतिवचनात् चेन्द्ररूपेणावस्थितस्य प्रमरस्य प्रकर्षेण शत्रूणां मारयितुः मे मम स्वभूतौ एतावेतादृशौ युक्तौ सुष्ठुपूजितौ गावौ शत्रून् यज्ञांश्च प्रतिगन्त्दारौ हरी मोप्रसेधीः स्तुत्यौपसंहारकरणेन अस्मद्यज्ञात् मागमय । किं तर्हिमुहुरित् मुहुर्मुहुः ममन्धि पुनःपुनः स्तुहि ममात्मन्नित्यर्थः । आपश्चिद्वृष्टिलक्षणान्युद- कान्यपि अस्येन्द्रस्यार्थं गतिं विनशन्ति विनशतिर्व्याप्तिकर्मा व्याप्नुवन्ति । तथा सूरश्च सू- र्यश्च व्याप्नोति । कीदृशः मर्कः मार्जयिता सर्वस्य शोधयिता उपरः मेघसदृशः बभूवान् भवन् मेघवच्छीघ्रगतिः सन्नित्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८