मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् २२

संहिता

वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वय॒ः प्र प॑तान्पूरु॒षादः॑ ।
अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥

पदपाठः

वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ ।
अथ॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । भ॒या॒ते॒ । इन्द्रा॑य । सु॒न्वत् । ऋष॑ये । च॒ । शिक्ष॑त् ॥

सायणभाष्यम्

वृक्षेवृक्षे सर्वस्मिन्व्रुक्षमेये धनुषि नियता संबद्धा गौः गोसंबंधिनी स्नायुमती मौर्वी मी पयत् मीमयतिः शब्दकर्मा आकृष्यमाणा सती शब्दं करोति । ततस्तस्माद्धनुषः पुरुषादः शत्रुजनानामत्तारोमारयितारइत्यर्थः वयः पक्षिसदृशाः गन्तारोबाणाः प्रपतान् शत्रून्प्रति प्रपतन्ति । अथ तदानीं इन्द्रायेन्द्रार्थं सुन्वत् सोमयागं कुर्वत् ऋषये च शिक्षत् कर्मणां द्रष्ट्रेऋत्विजे च संपूर्णां दक्षिणां दददपि इदमीदृशं विश्वं समस्तं भुवनं भूतजातं भयाते इन्द्राद्विभेति अन्यत्किमतेत्यर्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९