मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् १

संहिता

विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम ।
ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शित॒ः पुन॒रस्तं॑ जगायात् ॥

पदपाठः

विश्वः॑ । हि । अ॒न्यः । अ॒रिः । आ॒ऽज॒गाम॑ । मम॑ । इत् । अह॑ । श्वशु॑रः । न । आ । ज॒गा॒म॒ ।
ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम॑म् । प॒पी॒या॒त् । सुऽआ॑शितः । पुनः॑ । अस्त॑म् । ज॒गा॒या॒त् ॥

सायणभाष्यम्

अनया वसुक्रपत्नी स्तौति—अन्यइन्द्रव्यतिरिक्तः अरिः अर्यः ईश्वरः विश्वोहि सर्वएव देवगणआजगाम अस्मद्यज्ञं प्रत्याययौ । इदित्यवधारणे अहेत्यद्भुते । सर्वदेवगणे आगते सति ममैव श्वशुरः इन्द्रोनाजगाम सइन्द्रोयद्यागच्छेत्तर्हि धानाः भृष्टयवान् जक्षीयात् भक्षयेत् । उतापिच सोममभिषुतं पपीयात् ततः स्वाशितः सुष्ठु भुक्तः तृप्तः सन् पुनर्भूयः अस्तं स्वगृहं प्रति जगायात् गच्छेत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०