मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् २

संहिता

स रोरु॑वद्वृष॒भस्ति॒ग्मशृ॑ङ्गो॒ वर्ष्म॑न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥

पदपाठः

सः । रोरु॑वत् । वृ॒ष॒भः । ति॒ग्मऽशृ॑ङ्गः । वर्ष्म॑न् । त॒स्थौ॒ । वरि॑मन् । आ । पृ॒थि॒व्याः ।
विश्वे॑षु । ए॒न॒म् । वृ॒जने॑षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति॑ । सु॒तऽसो॑मः । पृ॒णाति॑ ॥

सायणभाष्यम्

वृषभः कामानां वर्षिता तिग्मश्रृंगः तीक्ष्णरश्मिः सइन्द्रोहं पृथिव्याअन्तरिक्षस्य वर्ष्मन् वर्ष्मनि वर्ष्मन् शब्दउन्नतवचनः स्थिर्वचनोवा एवंभूते वरिमन् विस्तीर्णे प्रदेशे रोरुवत् भृशं शब्दायमानः सन् आतस्थौ आतिष्ठामि । एवं भूतोहं विश्वेषु सर्वेषु वृजनेफ़्द्षु संग्रा- मेषु एनमीदृशं वसुक्रं यजमानं पामि रक्षामि योयजमानः सुतसोमः अभिषुतसोमः मे मम कुक्षी उभौ पार्श्वौ पृणाति सोमरसपुरोडाशादिहविर्भिः पूरयति ईदृशं रक्षामीति संबंधः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०