मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् ६

संहिता

ए॒वा हि मां त॒वसं॑ व॒र्धय॑न्ति दि॒वश्चि॑न्मे बृह॒त उत्त॑रा॒ धूः ।
पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ॥

पदपाठः

ए॒व । हि । माम् । त॒वस॑म् । व॒र्धय॑न्ति । दि॒वः । चि॒त् । मे॒ । बृ॒ह॒तः । उत्ऽत॑रा । धूः ।
पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । सा॒कम् । अ॒श॒त्रुम् । हि । मा॒ । जनि॑ता । ज॒जान॑ ॥

सायणभाष्यम्

हि यस्मात्कारणात् एव एवमुक्तप्रकारेण तवसं प्रवृद्धं मां स्तोतारः स्तुतिभिः स्तुव- न्तः वीर्येण वर्धयन्ति तस्मत्कारणात् बृहतोमहतो मे ममेन्द्रस्य दिवश्चित् द्युलोकादपि धूः स्तुतिः उत्तरा उद्गततरा अधिकतरा । किञ्च पुरु पुरूणि बहूनि मे सहस्रा शत्रूणां सहस्राणि साकं युगपत् निशिशामि तनूकरोमि हिनस्मीत्यर्थः । हि यस्मात्कारणात् जनि- ता सर्वस्य जनयिता प्रजापतिः मा मां इन्द्रं अशत्रुं अविद्यमानशत्रुं जजान जनितवान् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०