ए॒वा हि मां त॒वसं॑ ज॒ज्ञुरु॒ग्रं कर्म॑न्कर्म॒न्वृष॑णमिन्द्र दे॒वाः ।
वधीं॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नोऽप॑ व्र॒जं म॑हि॒ना दा॒शुषे॑ वम् ॥
ए॒व । हि । माम् । त॒वस॑म् । ज॒ज्ञुः । उ॒ग्रम् । कर्म॑न्ऽकर्मन् । वृष॑णम् । इ॒न्द्र॒ । दे॒वाः ।
वधी॑म् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । अप॑ । व्र॒जम् । म॒हि॒ना । दा॒शुषे॑ । व॒म् ॥
हि यस्मात्कारणात् एव एवमनेनोक्तप्रकारेण हे इन्द्र देवाः मरुददायः ऋत्विग्यजमा नवा तवसं महान्तं त्वत्पुत्रं त्वद्रूपनिरूपणावस्थितं संतं वसुक्रं मां कर्मन् कर्मन् वृत्रवधा ग्निहोत्रादौ सर्वस्मिन्कर्मणि उग्रं शूरमसह्यं वा वृषणं वर्षितारं हविषां दातारं जज्ञुः जान न्ति । अतः मन्दसानोमोदमानोहं वज्रेणायुधेन वृत्रं मेघमसुरं वावधीं अवधिषम् । किञ्च दा- शुषे हविर्दत्तवते यजमानाय वृष्टिप्रदानार्थं महिना महत्त्वेन व्रजं मेघसमूहं अपवं अपावं अपावृणोमि ॥ ७ ॥