मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् ८

संहिता

दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चन्तो॑ अ॒भि वि॒ड्भिरा॑यन् ।
नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हन्ति ॥

पदपाठः

दे॒वासः॑ । आ॒य॒न् । प॒र॒शून् । अ॒बि॒भ्र॒न् । वना॑ । वृ॒श्चन्तः॑ । अ॒भि । वि॒ट्ऽभिः । आ॒य॒न् ।
नि । सु॒ऽद्र्व॑म् । दध॑तः । व॒क्षणा॑सु । यत्र॑ । कृपी॑टम् । अनु॑ । तत् । द॒ह॒न्ति॒ ॥

सायणभाष्यम्

देवासोदेवाः इन्द्रेण चोदिताः सन्तः आयन् गच्छन्ति मेघवधार्थं परशून् वज्रान् अबि- भ्रन् धारयन्ति तदनंतरं विङ्भिः मरुदादिप्रजाभिः सहितावृश्चद्न्तः मेघान् छिन्दन्तः वना वनानि वृष्टिलक्षणान्युदकानि अभ्यायन् आभिमुख्येन गच्छन्ति । ततः सुद्र्वं शोभनद्रवणं वृष्ट्युदकं वक्षणासु नदीषु निदधतः नियमेन स्थापयन्तः यत्र यस्मिन्मेघजाते कृपीटं उदकनामैतत् निगूढमुदकं तिष्ठति तइमे देवाः तन्मेघजातं अनुलक्षीकृत्य दहन्ति उदकनि- र्गमनार्थं शोषयन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१