मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् १२

संहिता

ए॒ते शमी॑भिः सु॒शमी॑ अभूव॒न्ये हि॑न्वि॒रे त॒न्व१॒॑ः सोम॑ उ॒क्थैः ।
नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजा॑न्दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥

पदपाठः

ए॒ते । शमी॑भिः । सु॒ऽशमी॑ । अ॒भू॒व॒न् । ये । हि॒न्वि॒रे । त॒न्वः॑ । सोमे॑ । उ॒क्थैः ।
नृ॒ऽवत् । वद॑न् । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । दि॒वि । श्रवः॑ । द॒धि॒षे॒ । नाम॑ । वी॒रः ॥

सायणभाष्यम्

ये देवर्ष्यादयः तन्वः शरीराणि सोमे सोमयागे उक्थैः शस्त्रैः हिन्विरे वर्धयन्ति । एते देवादयः इन्द्रादेशात्सोमे आहृते सति शमीभिः सोमयागकर्मभिः सुशमी सुकर्माणः अभू- वन् । नृवत् मनुष्यवद्वदन् इदं युष्मभ्यं मया दत्तमिति व्यक्तां वाचमुद्धारयन् नोस्मभ्यमुप माहि उपगम्य वाजानन्नानि बलानि वा हे इन्द्र त्वं देहीतिशॆषः । अतः कारणात् वीरः दानशूरस्त्वं दिवि द्युलोके श्रवः दानपतिरितिकीर्तितं नाम नामधेयं दधिषे धारयसि ॥ १२ ॥

वनेवेत्यष्टर्चं त्रयोदशं सूक्तं वसुक्रस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रान्तंच—वनेनाष्टाविति । चतुर्थे हनि स्तोमवृद्धौ ब्राह्मणाच्छंसिनएतत्सूक्तमावापार्थम् । सूत्रितञ्च—स्तोमेवर्धमानेकोअद्यनर्यो वनेनवायइति । महाव्रते निष्केवल्येप्येतत्सूक्तम् । सूत्रितंच—प्रवोमहेमन्दमानायांधसइतिनिवि- द्धानंवनेनवायोन्यधायिचाकन्निति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१