मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् १

संहिता

प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति ।
म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥

पदपाठः

प्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति ।
म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥

सायणभाष्यम्

ब्रह्मणे तृतीयार्थे चतुर्थी ब्रह्मणा स्तोत्रेण स्तूयमानइतिशेषः गातुर्देवानपोवाप्रति गम- नशीलः सोमः देवत्रा देवीर्द्योतमानाः अपः वसतीवर्येकधनालक्षणान्युदकानि अच्छाभिप्रैतु प्रकर्षेण गच्छतु । तत्र दृष्टान्तः—मनसोनप्रयुक्ति यथा मनसः प्रयुक्ति प्रयोगउद्योगः शीघ्रं गच्छति तद्वत् । एवं सोमे अपःप्रति गते सति हे मदीयात्मन् अध्वर्यो वा महीं धासिं महत्सोमलक्षणमन्नं मित्रस्य वरुणस्य चार्थाय पृथुज्रयसे विस्तीर्णजवाय महतइन्द्रस्य वा- र्थायेत्यर्थः रीरध संसाधय संस्कुरु दानयोग्यं कुरु । सुवृक्तिं सुष्ठु दोषैर्वर्जितां स्तुतिं च कुरु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४