मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् ४

संहिता

यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१॒॑न्तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ ।
अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑य ॥

पदपाठः

यः । अ॒नि॒ध्मः । दीद॑यत् । अ॒प्ऽसु । अ॒न्तः । यम् । विप्रा॑सः । ईळ॑ते । अ॒ध्व॒रेषु॑ ।
अपा॑म् । न॒पा॒त् । मधु॑ऽमतीः । अ॒पः । दाः॒ । याभिः॑ । इन्द्रः॑ । व॒वृ॒धे । वी॒र्या॑य ॥

सायणभाष्यम्

उत्तरार्धस्य प्रत्यक्षकृतत्वादेकवाक्यतायै युष्मच्छब्देन समानार्थोभवच्छब्दः प्रथमार्धे आहार्यः योभवानपान्नपात् अप्सु अन्तः अपां मध्ये मेघस्थाने अनिध्मः काष्ठवर्जितः सन् दीदयत् दीप्यते विप्रासोमेधाविनऋत्विग्यजमानाअध्वरेषु यागेषु यं भवन्तं ईळते स्तुवन्ति । हे अपान्नपात् सत्वं मधुमतीः मधुररसयुक्ताः अपोवृष्टिलक्षणादाः अस्मभ्यं देहि याभिर्व सतीवर्येकधनारूपाभिः सोमेन श्रृताभिरद्भिः इन्द्रः वीर्याय वृत्रवधादिशूरकर्मणे ववृधे ता अपोदेहीति संबंधः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४