मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् ५

संहिता

याभि॒ः सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्य॑ः ।
ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सि॒ञ्चा ओष॑धीभिः पुनीतात् ॥

पदपाठः

याभिः॑ । सोमः॑ । मोद॑ते । हर्ष॑ते । च॒ । क॒ल्या॒णीभिः॑ । यु॒व॒तिऽभिः॑ । न । मर्यः॑ ।
ताः । अ॒ध्व॒र्यो॒ इति॑ । अ॒पः । अच्छ॑ । परा॑ । इ॒हि॒ । यत् । आ॒ऽसि॒ञ्चाः । ओष॑धीभिः । पु॒नी॒ता॒त् ॥

सायणभाष्यम्

अभिषुतः सोमः याभीर्वसतीवर्येकधनाख्याभिरद्भिः सह मोदते मुदितोभवति हर्षते च पुनरुक्तिरादरार्था अत्यर्थं हृष्यतीत्यर्थः । तत्र दृष्टान्तः—कल्याणीभिः कमनीयाभिर्युवतिभि स्तरुणीभिः सह मर्योन यथा मनुष्योमोदते तद्वत् । हे अध्वर्यो त्वं तास्तादृशीरपः अच्छा भिप्राप्तुं परेहि जलाशयं प्रति गच्छ । किञ्च यद्यदा आहृताभिस्ताभिः आसिंचाः आसमन्ता त्सोमान्सिञ्चसि तदा ओषधीभिः सोमैः सह अपश्च पुनीतात् दशापवित्रेण पुनीहि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४