मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् ६

संहिता

ए॒वेद्यूने॑ युव॒तयो॑ नमन्त॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ ।
सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥

पदपाठः

ए॒व । इत् । यूने॑ । यु॒व॒तयः॑ । न॒म॒न्त॒ । यत् । ई॒म् । उ॒शन् । उ॒श॒तीः । एति॑ । अच्छ॑ ।
सम् । जा॒न॒ते॒ । मन॑सा । सम् । चि॒कि॒त्रे॒ । अ॒ध्व॒र्यवः॑ । धि॒षणा॑ । आपः॑ । च॒ । दे॒वीः ॥

सायणभाष्यम्

युवतयस्तरुण्यः स्त्रियः यूने तरुणाय नमंत यथा प्रह्वीभवन्ति एव एवं वसतीवर्येक धनाख्याआपः सोमाय प्रह्वीभवन्ति । यद्वा युवतयः सोमेन सह मिश्रयित्र्यः आपः यूने अभिषवादिकर्मणा आत्मना सह मिश्रयित्रे कर्त्रे अध्वर्यवे नमन्त प्रह्वीभवन्त्येव । इदिति पूरणः । कदा यद्यदा उशन् अभिषवार्थं वसतीवरीः कामयमानः सोमः सोमाभिषवं कर्तुं कामयमानोध्वर्युर्वा उशतीः सोमेन सह मिश्रीभावमभिषवादिकर्मांगभावं च कामयमानाः ईमेनाअपः अच्छ प्राप्तुं एति गच्छति तदा उपनमन्ते अध्वर्यवः धिषणा तदीया स्तुति- लक्षणा वाक् च देवीर्देव्यः अपः आपश्च मनसा विशिष्टया बुद्या संजानते सम्यक् जानन्ति संचिकित्रे स्वं स्वमधिकारं परस्परोपकारं च चक्षुषा सम्यक् पश्यन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५