मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् ८

संहिता

प्रास्मै॑ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो वः॑ सिन्धवो॒ मध्व॒ उत्स॑ः ।
घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥

पदपाठः

प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । गर्भः॑ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः॑ । उत्सः॑ ।
घृ॒तऽपृ॑ष्ठम् । ईड्य॑म् । अ॒ध्व॒रेषु॑ । आपः॑ । रे॒व॒तीः॒ । शृ॒णु॒त । हव॑म् । मे॒ ॥

सायणभाष्यम्

अत्र यच्छब्दसंबंधात् द्वितीयः पादः पूर्वं व्याख्येयः हे सिन्धवः स्यन्दनशीलाः आपः वोयुष्माकं योगर्भः मध्वोमधुररसस्य उत्सउत्स्यन्दनः प्रस्रवणः यच्छब्दयोगात्तच्छब्दोध्या- हार्यः तं मधुमन्तं मधुररसोपेतं ऊर्मिमप्संघातं सारमित्यर्थः अस्मै अस्येन्द्रस्यार्थाय प्रहि नोते प्रहिणुत प्रगमयत । कीदृशं अध्वरेषु यज्ञेषु घृतपृष्ठं घृतमाज्यं पृष्ठे यस्य तं पश्चा- द्घृतपातिनमित्यर्थः । ईड्यं स्तुत्यम् । किञ्च हे आपः यूयं रेवतीः रेवत्यः अस्मभ्यं यानि धनानि दातव्यानि तैर्धनवत्यः मे मदीयं हवमाह्वानं शृणुत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५