मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् १०

संहिता

आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चर॑न्तीः ।
ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृध॒ः सयो॑नीः ॥

पदपाठः

आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः ।
ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥

सायणभाष्यम्

अधाथानन्तरं गोषु युधोन गोषु निमित्तभूतासु मेघैः सह युद्धतइति गोषुयुदिन्द्रः तस्य यथा वृष्टिलक्षणाआपः द्विधाराः द्विशब्दोनेकत्ववाची अनेकधाराः अपर्यन्तधाराइ त्यर्थः अस्माकमप्येवं स्थिताः आवर्वृततीः आवृत्ताः नियवं सोमं प्रतिनियतं यवं मिश्री भावं चरन्तीः गच्छन्तीः भुवनस्य लोकस्य जनित्रीः जनयित्रीः पत्नीः पालयित्रीश्च सवृ धः सह सोमस्य वर्धयित्रीः सयोनीः सोमेन सह समानस्थानाः हे ऋषे मदीयान्तरात्मन् अध्वर्यो वा त्वं एवंभूताअपः नु क्षिप्रं वन्दस्व स्तुहीत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५