मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् ११

संहिता

हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् ।
ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥

पदपाठः

हि॒नोत॑ । नः॒ । अ॒ध्व॒रम् । दे॒व॒ऽय॒ज्या । हि॒नोत॑ । ब्रह्म॑ । स॒नये॑ । धना॑नाम् ।
ऋ॒तस्य॑ । योगे॑ । वि । स्य॒ध्व॒म् । ऊधः॑ । श्रु॒ष्टी॒ऽवरीः॑ । भू॒त॒न॒ । अ॒स्मभ्य॑म् । आ॒पः॒ ॥

सायणभाष्यम्

हे ऋत्विजः हिनोत प्रहिणुत प्रगमयत प्रोत्सर्पयत नोस्माकं एतमध्वरं यज्ञं देवयज्या देवयज्यायै देवयजनार्थम् । किञ्च प्रहिणुतब्रह्मस्तुत्याख्यं यथाशास्त्रक्रमेण सनये लब्धयेस्माकं धनानां किञ्च ऋतस्य यज्ञस्य योगे संयोगे यदेतदूधरिव सोमपूर्णमधिषवणचर्म वर्तते । अथवा सोमसंबद्धशकटं योगः तद्धि तर्हि युज्यते तेनाधिषवणचर्मोधसोधस्तादवस्थितेनेति मन्यमानोनिरुक्तकारोब्रवीति याज्ञेशकटइति । यदेतद्यज्ञशकटस्याधस्तादुपरिवाधिषवणचर्मैत द्विष्यध्वं विमुंचध्वं ग्रहचमसस्थाल्यादिषु योनिषेकः सोमस्य एतद्विमोचनमधिषवणचर्मो- धसः तद्धिसोमउत्सिच्यमाने श्लथीभवति । यथेतरं गोरूधोदुह्यमानायां गवि एवमृत्विजउ- क्त्वाधुनैवसोमसंमिश्राअपोब्रवीति यूयमपि हे आपः एभिरृत्विग्भिरुत्सिच्यमानाः श्रुष्ठईव- रीः सुखवत्योभूतन भवतास्मभ्यम । एवमत्र प्रशब्देनार्थस्य सुतरां प्रकटनाभवतीति भा- ष्यकारेण प्रशब्दोध्याहृतः प्रहिणुतेति अध्वरमित्यनेनसंबंधात् हिनोतेर्गत्यर्थद्त्वमुपपद्यते । एतस्याऋचोव्याख्यानं निरुक्तटीकायाउद्धृतं ॥ ११ ॥ प्रातरनुवाकस्यापोरेवतीरित्येषा प्रतिपत् । सूत्रितंच—आपोरेवतीःक्षयथाहिवस्व उपप्रय- न्तइतिसूक्ते इति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६