मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् १२

संहिता

आपो॑ रेवती॒ः क्षय॑था॒ हि वस्व॒ः क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च ।
रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नी॒ः सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥

पदपाठः

आपः॑ । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थ । अ॒मृत॑म् । च॒ ।
रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥

सायणभाष्यम्

हे आपः रेवतीः रेवत्योधनवत्योयूयं वस्वः वसुनोधनस्य क्षयथ हि ईशिध्वे खलु । किञ्च भद्रं भजनीयं क्रतुं च सोमयागादिलक्षणं कर्म च अमृतं च अमृतममरणरूपं तज्ज न्यफलं च बिभृथ धारयथ पुष्णीथ वा । तथा रायश्च धनस्य च स्वपत्यस्य शोभनपुत्रस्य च पत्नीः पत्न्यः पालयित्र्यः स्थ भवथ । तथा सरस्वती तदभिमानिनी देवता गृणते स्तु- वते मह्यं तदिदं सर्वं वयोन्नलक्षणं धनं धात् दधातु ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६