मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् १४

संहिता

एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः ।
नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥

पदपाठः

आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ ।
नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥

सायणभाष्यम्

रेवतीरेवत्योधनवत्यः जीवधन्याः जीवानां पाययित्र्यः प्रीणयित्र्योवा इमाईदृग्भूताआः आग्मन् अस्मद्यज्ञं प्र्त्यागच्छन् एतज्ज्ञात्वा हे सखायः सखिभूताहे अध्वर्यवः यूयं अपांन प्त्रा वृष्टिकर्मस्वधिकृतेन देवेन सह संविदानासः संविदानाः संमंत्रयमाणाः एनाः एताअपः सादयत स्थापयत । कुत्र सादयामीति उच्यते—सोम्यासः सोमसंपादिनः अध्वर्यवोयूयं बर्हि षि वेद्यामास्तीर्णे कुशमये निधत्तन नियमेन स्थापयत ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६