मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् १

संहिता

आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः ।
तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तर॑न्तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥

पदपाठः

आ । नः॒ । दे॒वाना॑म् । उप॑ । वे॒तु॒ । शंसः॑ । विश्वे॑भिः । तु॒रैः । अव॑से । यज॑त्रः ।
तेभिः॑ । व॒यम् । सु॒ऽस॒खायः॑ । भ॒वे॒म॒ । तर॑न्तः । विश्वा॑ । दुः॒ऽइ॒ता । स्या॒म॒ ॥

सायणभाष्यम्

देवानां स्तोतॄणां नोस्माकं शंसः स्तोतव्यः यजत्रोयष्टव्यः एवंभूतः इन्द्रः तुरैः त्वरण- शीलैः विश्वेभिः सर्वैर्मरुद्भिः सह अवसे अस्मद्यज्ञरक्षणार्थं आउपवेतु उपागच्छतु । वयमपि तेभिस्तैः सह सुसखायः शोभनसखायः स्याम भवेम । किञ्च विश्वा दुरिता विश्वानि दु- रितानि पापानि तरन्तः स्याम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७