मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् ४

संहिता

नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ ।
भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥

पदपाठः

नित्यः॑ । चा॒क॒न्या॒त् । स्वऽप॑तिः । दमू॑नाः । यस्मै॑ । ऊं॒ इति॑ । दे॒वः । स॒वि॒ता । ज॒जान॑ ।
भगः॑ । वा॒ । गोभिः॑ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः॑ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥

सायणभाष्यम्

नित्यः कल्पावस्थायी प्रजापतिः चाकन्यात् तस्मै दृष्टादृष्टफलं चाकनतु कामयताम् । कीदृशः स्वपतिः स्वीयानां प्रजानां स्वामी धनपतिर्वा दमूनाः दानमनाः । कस्मै कामय- तामिति उच्यते । उ अपिच यस्मै यजमानाय सह्यं सविता सर्वस्य प्रेरकोदेवः जजान जनितवान् दृष्टादृष्टफलं दत्तवानित्यर्थः । वाशब्दः समुच्चये । तथा भगोदेवश्च गोभिरस्मदी याभिः स्तुतिरूपाभिर्वाग्भिः अर्यमादेवश्च ईमीदृग्भूतं दृष्टदृष्टफलं अनज्यात् व्यक्तीकुर्यात् दद्यादित्यर्थः । उतापिच स्यात् अन्योपि योदेवगणोस्ति चारुः रमणीयः सोपिदेवगणः अस्मै यजमानाय मह्यं छदयत् दृष्टदृष्टफलं दातुं कामयतामित्येतदाशास्महे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७