मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् ५

संहिता

इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मन्त॒ः शव॑सा स॒माय॑न् ।
अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजा॑ः ॥

पदपाठः

इ॒यम् । सा । भू॒याः॒ । उ॒षसा॑म्ऽइव । क्षाः । यत् । ह॒ । क्षु॒ऽमन्तः॑ । शव॑सा । स॒म्ऽआय॑न् ।
अ॒स्य । स्तु॒तिम् । ज॒रि॒तुः । भिक्ष॑माणाः । आ । नः॒ । श॒ग्मासः॑ । उप॑ । य॒न्तु॒ । वाजाः॑ ॥

सायणभाष्यम्

क्षुमन्तः क्षुशब्दोन्नवाची शब्दवाची वा अन्नवन्तः स्तुतिमन्तः कीर्तिमन्तोवेत्यर्थः एवं- भूताः देवाः शवसा बलेन यत् यामस्मदीयां स्तुतिं प्रतिसमायन् समागच्छन्संप्राप्ताः सेयं स्तुतिर्देवानां प्राप्याभूयाः भूयात् भवतु उषसामिवक्षाः यथा पृथिवी उषसां व्याप्ता सर्वे- षां प्राप्या भवति तद्वत् । किञ्च जरितुः स्तोतुरस्य मम स्तुतिं भिक्षमाणाः याचमानाः शग्मासः शग्ममिति सुखनाम सुखाः सुखकराः वाजाः सुधन्वनः पुत्राः त्रयोप्यृभुर्विभ्वावा जइत्येते नोस्मानाभिमुख्येन उपयन्तु उपगच्छन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७