मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् ६

संहिता

अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः ।
अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥

पदपाठः

अ॒स्य । इत् । ए॒षा । सु॒ऽम॒तिः । प॒प्र॒था॒ना । अभ॑वत् । पू॒र्व्या । भूम॑ना । गौः ।
अ॒स्य । सऽनी॑ळाः । असु॑रस्य । योनौ॑ । स॒मा॒ने । आ । भर॑णे । बिभ्र॑माणाः ॥

सायणभाष्यम्

इत् इदानीं अस्य देवगणस्य संबंधिनी एषा सुमतिः सुष्टु स्तुतिः पप्रथाना भवत् वि- स्तीर्यमाणाभूत् अस्माभिः क्रियमाणाइत्यर्थः । कीदृशी पूर्व्या पूर्वकालीना भूमना भूम्ना ब- हुत्वेन युक्तेतिशेषः सर्वदेवसंबंधित्वात् भृशं जातेत्यर्थः गौः देवान्प्रति गन्त्री एतज्ज्ञात्वा सर्वे देवाअसुरस्य प्रजारूपबलवतः अस्य मम संबंधिनि समाने सर्वदेवसाधारणे भरणे सर्वेषां देवानां पुष्टिकरणे योनौ यज्ञाख्ये स्थाने सनीळाः समानस्थानाः बिभ्रमाणाः अस्म दर्थं दृष्टादृष्टफलं धारयन्तः आगच्छन्त्विति शेषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८