किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरन्त ॥
किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।
स॒न्त॒स्था॒ने इति॑ स॒म्ऽत॒स्था॒ने । अ॒जरे॒ इति॑ । इ॒तऊ॑ती॒ इती॒तःऽऊ॑ती । अहा॑नि । पू॒र्वीः । उ॒षसः॑ । ज॒र॒न्त॒ ॥
यतः यस्माद्वृक्षात् द्यावापृथिवी द्यावापृथिव्यौ निष्टतक्षुः देवाः निःशेषेण कृतवन्तः स तादृशोवृक्षः कउ आस कीदृग्वा बभूव तदुत्पादकं वनमरण्यं किंस्वित् सन्तस्थाने सम्यक् तिष्ठन्त्यौ अजरे जरावर्जिते इतऊती इतः एतेभ्योदेवेभ्योरक्षणं ययोस्ते । किञ्च अहानि स- र्वाणि दिनानि पूर्वीर्बह्वीरुषसश्च देवाः निष्टतक्षुः एवंभूतान्देवान् जरन्तः स्तोतारः स्तुव- न्ति ॥ ७ ॥