मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् ९

संहिता

स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ ।
मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक॑म् ॥

पदपाठः

स्ते॒गः । न । क्षाम् । अति॑ । ए॒ति॒ । पृ॒थ्वीम् । मिह॑म् । न । वातः॑ । वि । ह॒ । वा॒ति॒ । भूम॑ ।
मि॒त्रः । यत्र॑ । वरु॑णः । अ॒ज्यमा॑नः । अ॒ग्निः । वने॑ । न । वि । असृ॑ष्ट । शोक॑म् ॥

सायणभाष्यम्

स्तेगः स्त्यै ष्ट्यै शब्दसंघातयोः रश्मिसंघातीआदित्यः पृथ्वीं विस्तीर्णां क्षां भूमिं तेजसा नात्येति नातिगच्छति मर्यादया तिष्ठतीत्येवमादित्यः स्तूयते वातोवायुरपि खलु भूम भूमिं मिहं वृष्टिं न विवाति समर्थोपि सन् विविधं न गमयति भूमिं प्रति सावशे षमेव वर्षतीति वातः स्तूयते यत्र यस्मिन्प्रजापतौ मित्रोदेवः अज्यमानोव्यज्यमानः व्य- क्तीभवन्नुत्पाद्यमानइत्यर्थः शोकं स्वदीप्तिं व्यसृष्ट विसृजति सर्वतोविक्षिपति । तथा वरुण- श्च व्यक्तीभवन्स्वदीप्तिं विक्षिपति । तत्र दृष्टान्तः—अग्निर्दवानलः वने न यथः वृक्षसंघाते स्वदीप्तिं सर्वतोविसृजति तद्वत् तादृशं प्रजापतिं स्तौमीति शेषः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८