मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् १०

संहिता

स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा ।
पु॒त्रो यत्पूर्व॑ः पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥

पदपाठः

स्त॒रीः । यत् । सूत॑ । स॒द्यः । अ॒ज्यमा॑ना । व्यथिः॑ । अ॒व्य॒थीः । कृ॒णु॒त॒ । स्वऽगो॑पा ।
पु॒त्रः । यत् । पूर्वः॑ । पि॒त्रोः । जनि॑ष्ट । श॒म्याम् । गौः । ज॒गा॒र॒ । यत् । ह॒ । पृ॒च्छान् ॥

सायणभाष्यम्

अरण्याकारभूतां शमीं गोत्वेन निरूपयति स्तरीर्निवृत्तप्रसवागौः सद्यः शीघ्रं अज्यमा- ना निषिच्यमानरेतस्कासती यद्यदा सूत वत्सं प्रसूते तदा व्यथिर्दुःखानां बाधयित्री स्वगो पास्वायत्तगोप्तृका स्वभूतरक्षणा वा सती सा गौः अव्यथीः व्यथारहिताः प्रजाः कृणुत करोति । यदा शमी पुत्रस्थानीयमश्वत्थं प्रसूते तदानीमरण्याहरणाय तादृशमश्वत्थमन्वि- ष्यतामृत्विजां अश्वत्थस्य जनयित्री शमी सुखहेतुर्भवतीत्यर्थः । शमीगर्भादश्वत्थादरणीआह- र्तव्ये । श्रूयतेहिशमीगर्भादग्निं मश्नन्तीति । अपिच पूर्वः पुरातनः पुत्रः पुन्नाम्नोनरकान्त्राता यद्वा पुत्रस्थानीयोग्निः पित्रोर्जनयित्र्योररण्योः सकाशाद्यद्यदा जनिष्टमन्थनेन प्रादुर्भवति तदानीं गौः पृथिवीतयोररण्योर्मातृभूतां शम्यां अश्वत्थगर्भां तां शमीं सुपांसुलुगितिसुपो- ड्यादेशः जगार उद्गिरति यद्ध यां खलु शमीं पृच्छान् ऋत्विजः पृच्छन्ति ज्ञीप्सन्ति गवे षयन्ति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८