मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३२, ऋक् १

संहिता

प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः ।
अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥

पदपाठः

प्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः ।
अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥

सायणभाष्यम्

इन्द्रः स्वभूतौ हरी धियसानस्य इन्द्रागमनं चिन्तयतोयजमानस्य मनः संबंधिनिसक्षणि सेवायां मद्गुणके सेव्ये यज्ञेनिमित्तेग्मन्ता आगच्छन्तौ सु सुष्ठु प्रेरयति ततः सइन्द्रः वरे- भिर्वरणीयैर्मार्गैः प्रसीदतः हविरासादयतोयजमानस्य वरानुत्कृष्टान् हविर्विशेशान्स्तुतिविशे षांश्चाभिलक्षीकृत्य सुष्ठु आगच्छतु सइन्द्रआगतः सन् अस्माकं स्वभूतं उभयं हविश्च स्तुति श्चैतद्बूयं जुजोषति सेवतां भक्षयतु श्रृणोतु चेत्यर्थः । यद्यदा सोम्यस्य सोमसंपादिनोमम अन्धसः अन्नरूपस्य सोमस्य रसमितिशेषः बुबोधति बुध्यते जिह्वया विजानाति सोमं पिबतीत्यर्थः तदा जुजोषतीति पूर्वेण संबंधः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९