मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३२, ऋक् ३

संहिता

तदिन्मे॑ छन्त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति ।
जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥

पदपाठः

तत् । इत् । मे॒ । छ॒न्त्स॒त् । वपु॑षः । वपुः॑ऽतरम् । पु॒त्रः । यत् । जान॑म् । पि॒त्रोः । अ॒धि॒ऽइय॑ति ।
जा॒या । पति॑म् । व॒ह॒ति॒ । व॒ग्नुना॑ । सु॒ऽमत् । पुं॒सः । इत् । भ॒द्रः । व॒ह॒तुः । परि॑ऽकृतः ॥

सायणभाष्यम्

वपुषः वपूरूपं तद्वान् लक्ष्यते वष्पुमतोपि वपुष्टरं रूपवत्तरं अत्यन्तं सुरूपं तत् यज्ञ- कर्म मे मह्यं छन्त्सत् इन्द्रः कामयतां यद्यदा पुत्रः जानं जन्म आत्मनउत्पत्तिं पित्रोर्मा- तापित्रोः सकाशादधीयति संकीर्तनद्वारेणाधिगच्छति सुब्रह्मण्याह्वानकाले अमुकशर्मणः पु- त्रोयजतइत्यात्मनोजन्मसंकीर्तयति यद्वा यज्जननादागत धनं पित्रोः सकाशात्पुत्रःअधिगच्छ ति तदेव मह्यमिच्छतु जाया पत्नी पतिं यजमानं सुमत् कल्याणेन वग्नुना वाग्रूपेण शब्देन वहति आत्मसमीपं प्रापयति भद्रोभजनीयः परिष्कृतः संस्कृतः पुंसइत् पुसः पत्युरेवार्थं वहतुर्जायायै प्रदातव्यः । तदुक्तं सुभद्रमर्यभोजनंबिभर्षिइति । यद्वा पुंसः अतिशूरस्येन्द्रस्या- र्थाय भद्रः भजनीयः वहतुर्वहनशीलोदेवान्प्रति ससोमः परिष्कृतः संस्कृतोभवति तदेन्द्रः कामयतामित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९