मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३२, ऋक् ५

संहिता

प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणि॑ः ।
ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥

पदपाठः

प्र । वः॒ । अच्छ॑ । रि॒रि॒चे॒ । दे॒व॒ऽयुः । प॒दम् । एकः॑ । रु॒द्रेभिः॑ । या॒ति॒ । तु॒र्वणिः॑ ।
ज॒रा । वा॒ । येषु॑ । अ॒मृते॑षु । दा॒वने॑ । परि॑ । वः॒ । ऊमे॑भ्यः । सि॒ञ्च॒त॒ । मधु॑ ॥

सायणभाष्यम्

हे यजमानाः देवयुः देवान्कामयमानो होता वो युष्माकं पदमच्छस्थानं प्रति प्ररिरिचे अतिरिक्तोभूत् अन्यहोतृभ्यः सकाशात् एकः मुख्यः इन्द्रः रुद्रेभिः रुद्रपुत्रैर्मरुद्भिः सह तुर्व- णिः क्षिप्रगामीसन् याति गच्छति युष्मदीयं यज्ञं जरावा वाशब्दोप्यर्थे स्तुतिरपि एष्व मृतेषु मरणधर्मरहितेषु देवेषु दावने धनप्रदानाय समर्था भवति तस्मात् वो यूयं छान्द सोवसादेशः ऊमेभ्यो रक्षितृभ्यो देवेभ्यः मधु मदकरं सोमं अद्भिः परिषिञ्चत ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९