मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३२, ऋक् ६

संहिता

नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥

पदपाठः

नि॒ऽधी॒यमा॑नम् । अप॑ऽगूळ्हम् । अ॒प्ऽसु । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ ।
इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥

सायणभाष्यम्

कुरुश्रवणस्य यज्ञे निधीयमानोग्निरभिधीयते निधीयमानं अध्वर्युणा हवनीयेग्नौ अप्सु मातृभूतासु अपगूह्ळं अन्तर्हितं देवानां व्रतपाः कर्मणोरक्षकः इन्द्रः मे मह्यं प्रोवाच प्रा- वादीत् हे अग्ने विद्वान् जानानइन्द्रः स्वाधिकारमस्मद्भक्ततां वा त्वा त्वां अनुहि चचक्ष अनुगतः पश्चाद्ददर्श तेनेन्द्रेणानुशिष्टोहं अनेन पथा त्वया स्वर्गोगन्तव्यइत्येवमुपदिष्टः सन् आगां आभिमुख्येन स्वर्गं गच्छेयं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०