मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् १

संहिता

प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण ।
विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒ःशासु॒रागा॒दिति॒ घोष॑ आसीत् ॥

पदपाठः

प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण ।
विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥

सायणभाष्यम्

यस्यनिःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वंदे विद्यातीर्थमहेश्वरं ॥ १ ॥

अथसप्तमेष्टमोध्यायआरभ्यते । तत्र प्रमेति वचर्चं चतुर्थं सूक्तं ऎलूषस्य कवषस्यार्षं आद्या त्रिष्टुप् साच वैश्वदेवी द्वितीया तृतीये बृहतीसतोबृहत्यौ ऎद्भ्यौ पराः षड्गायत्र्यः कुरुश्रवणमावृणीति द्वाभ्यां त्रसदस्युपुत्रस्य कुरुश्रवणनाम्नोराज्ञोदानं तुष्टाव अतस्तद्देवताके अथ यस्य प्रस्वादसइत्यादिभिश्चतसृभिः मित्रातिथिनाम्नि राज्ञि परलोकं गते शोकाभि- भूतं तस्य पुत्रं उपमश्रवोनामानं कवषऋषिः स्नेहवशादवगत्यविगतशोकमकरोत् अतस्ता- सां तद्देवतात्वम् । तथाचानुक्रान्तं—प्रमाद्यावैश्वदेव्यैद्रः प्रगाथः परागायत्र्यो द्वे कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः पराभिर्मृते मित्रातिथौ राज्ञि तत्स्नेहादृषिरुपमश्रवसं पुत्रमस्य व्यशोकयदिति । गतोविनियोगः ।

जनानां यजमानानां प्रयुजः प्रयोक्तारोदेवाः मा मां कवषमृषिं प्रयुयुज्रे कुरुश्रवणं प्र- तियुक्तवन्तः अन्तरेण मार्गे पूषणं देवमध्वनां पतिं सखायमहं वहामिस्म ऊढवानस्मि । त- थाच श्रूयते—ऎंद्राग्नमेकादशकपालंनिर्वपेत् जनतामेष्यन्नित्युपक्रम्य पौष्णंचरुमनुनिर्वपेदिति । अधअथ मार्गे विश्वेदेवासः विश्वेदेवामां कवषमरक्षन् रक्षतवंतः दुःशासुः केनापि दुःशास- नोयमृषिः आगादागच्छतीति घोषः शब्दश्च मार्गआसीदभूत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः