मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् २

संहिता

सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥

पदपाठः

सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।
नि । बा॒ध॒ते॒ । अम॑तिः । न॒ग्नता॑ । जसुः॑ । वेः । न । वे॒वी॒य॒ते॒ । म॒तिः ॥

सायणभाष्यम्

मा मां देवताप्रसादरहितं कवषं वर्शवः पार्श्वास्थीनि अन्नाभावाद्दौर्बल्यात् कुशयनाच्च सपत्नीरिव यथासपत्न्यः तद्वदभितउभयतः संतपंति दुःखयंतीत्यर्थः । किंच अमतिर्दारिद्मा- दागता दुर्मतिः सर्वार्थविषया सा निबाधते मां पीडयति वस्राभावादागता नग्नता च मां निवाधते जसुः अशनाभावादागतउपक्षयोपि मां निबाधते । किंच वेर्न यथा पक्षिणोमतिः शाकुनिकव्याधभयात् कंपयते तथा मे मतिः शत्रोर्वेवीयते भृशं कंपयते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः