मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् ३

संहिता

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ः स्तो॒तारं॑ ते शतक्रतो ।
स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥

पदपाठः

मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
स॒कृत् । सु । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । मृ॒ळ॒य॒ । अध॑ । पि॒ताऽइ॑व । नः॒ । भ॒व॒ ॥

सायणभाष्यम्

हे शतक्रतो बहुकर्मन् मघवन्निंद्र ते तव स्तोतारं मा मां कवषं आध्यः आधयः मू- षोन यथा मूषिकाः शिश्ना स्नातानि सूत्राण्यश्नंति तथा व्यदंति विविधमदंति । तथाच यास्कः—संतपंतिमामभितः सपत्न्यइवेमाः पर्शवः कूपपर्शवोमूषिकाइवास्नातानि सूत्राणि व्यदंति स्वांगाभिधानं वास्यात् शिश्नानि व्यदंतीति वा संतपंति माध्यः कामाइति । तथा च सति हे इंद्र नोस्मान्सकृत्सुमृळयाभीष्टप्रदानेन सम्यक् सुखय अध अथ नोस्माकं पि- तेव यथा पिता तद्वद्रक्षिता भव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः