मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् ४

संहिता

कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् ।
मंहि॑ष्ठं वा॒घता॒मृषि॑ः ॥

पदपाठः

कु॒रु॒ऽश्रव॑णम् । अ॒वृ॒णि॒ । राजा॑नम् । त्रास॑दस्यवम् ।
मंहि॑ष्ठम् । वा॒घता॑म् । ऋषिः॑ ॥

सायणभाष्यम्

ऋषिरतींद्रियार्थद्रष्टा कवषोहं त्रासदस्यवं त्रसदस्योः पुत्रं मंहिष्ठं धनानामतिशयेन दा- तारं कुरुश्रवणं कुरवऋत्विजः तदीयानां स्तुतीनां श्रोतारं कुरुश्रवणं तन्नामकं राजानं वाघ तां ऋत्विजामर्थाय अवृणि धनानि प्रार्थये ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः