मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् ६

संहिता

यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः ।
क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥

पदपाठः

यस्य॑ । प्रऽस्वा॑दसः । गिरः॑ । उ॒प॒मऽश्र॑वसः । पि॒तुः ।
क्षेत्र॑म् । न । र॒ण्वम् । ऊ॒चुषे॑ ॥

सायणभाष्यम्

हे राजन् उपमश्रवसस्तव पितुर्यस्य मित्रातिथेर्गिरोवाचः प्रस्वादसः प्रकर्षेण स्वादपि- त्र्यः । तत्र दृष्टांतः—ऊचुषे सेवमानाय दरिद्राय दानार्थं प्रकल्पितं रण्वं रमणीयं क्षेत्रं च यथा क्षेत्रं स्वदयितृ तद्वदित्यर्थः । उत्तरत्र संबंधः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः