मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् ९

संहिता

न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति ।
तथा॑ यु॒जा वि वा॑वृते ॥

पदपाठः

न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ ।
तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥

सायणभाष्यम्

देवानां ब्रह्मादीनां व्रतं मर्यादालक्षणं कर्म अतिक्रम्य शतात्मा चन शतवत्सरः कश्चन न जीवति । तथा युजा सहायादिना विववृते विवर्तते वियुक्तोभवति इति ज्ञात्वा शोकं मा कुर्वित्यर्थः ॥ ९ ॥

प्रावेपाइति चतुर्दसर्चं पंचमं सूक्तं ऎलूषस्य कवषस्यार्षं मूजवतः पुत्रस्याक्षाख्यस्य वा । सप्तमी जगती शिष्टास्त्रयोदशत्रिष्टुभः अत्र द्वादश्यक्षान् स्तौति नवम्याद्या चातस्तास्तद्देव- त्याः सप्तमी त्रयोदशी च कृषिंस्तौति अतस्तयोः सा देवता एवं पंच गताः । शिष्टाभिर्न- वभिः कितवोक्षाश्च निद्यंते अतस्ताअपि तद्देवत्याः । तथाचानुक्रांतं—प्रावेपाः षळूना मौ- जवान्वाक्षोक्षकृषिप्रशंसा चाक्षकितवनिंदा च सप्तमी जगतीति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः