मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् १

संहिता

प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः ।
सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥

पदपाठः

प्रा॒वे॒पाः । मा॒ । बृ॒ह॒तः । मा॒द॒य॒न्ति॒ । प्र॒वा॒ते॒ऽजाः । इरि॑णे । वर्वृ॑तानाः ।
सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥

सायणभाष्यम्

बृहतोमहतोविभीतकस्य फलत्वेन संबंधिनः प्रवातेजाः प्रवणे देशे जाताः इरिणे आ- स्फारे वर्वृतानाः प्रवर्तमानाः प्रावेपाः प्रवेपिनः कंपनशीलाः अक्षाः मा मां मादयंति हर्ष यंति । किंच जागृविः जयपराजयोर्हर्षशोकाभ्यां कितवानां जागरणस्य कर्ता विभीदकोबि- भीतकविकाराक्षोमह्यं मां अच्छान् अचच्छदत् अत्यर्थं मादयति । तत्र दृष्टांतः—सोमस्येव यथा सोमस्य मौजवति पर्वते जातोमौजवतस्तस्य तत्र ह्युत्तमः सोमोजायते । भक्षः पानं यजमानान् देवांश्च मादयति तद्वदित्यर्थः । तथाच यास्कः—प्रवेपिणोमामहतोबिभीत् कस्य फलानिमादयंति प्रवातेजाः प्रवणेजा इरिणे वर्तमानाइरिणद्ं निरृर्णं ऋणातेरपार्णं भवत्य परताअस्मादोषधयइति वासोमस्येव मौजवतस्य भक्षोमौजवतोमूजवति जातोमुजवान् पर्व तोमुंजवान् मुंजोविमुंचतीषीकामिषीकैषतेर्गतिकर्मणइयमपीतरेषीकैतस्मादेवबिभीतकोबिभेद नात् जागृविर्जा गरणात् मह्यमवच्छददिति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः