मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् २

संहिता

न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् ।
अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधम् ॥

पदपाठः

न । मा॒ । मि॒मे॒थ॒ । न । जि॒ही॒ळे॒ । ए॒षा । शि॒वा । सखि॑ऽभ्यः । उ॒त । मह्य॑म् । आ॒सी॒त् ।
अ॒क्षस्य॑ । अ॒हम् । ए॒क॒ऽप॒रस्य॑ । हे॒तोः । अनु॑ऽव्रताम् । अप॑ । जा॒याम् । अ॒रो॒ध॒म् ॥

सायणभाष्यम्

एषास्मदीया जाया मा मां कितवं नमिमेथ नच चुक्रोध न जिहीळे नच लज्जित- घती सखिभ्योस्मदीयेभ्यः कितवेभ्यः शिवा सुखकर्यासीदभूत् । उतापिच मह्यं शिवासीत् इत्थमनुव्रतामनुकूलां जायां एकपरस्य एकः परः प्रधानं यस्य तस्याक्षस्य हेतोः कारणा दह्रमपारोधं परित्यक्तवानस्मीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः