मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् ३

संहिता

द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् ।
अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥

पदपाठः

द्वेष्टि॑ । श्व॒श्रूः । अप॑ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार॑म् ।
अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥

सायणभाष्यम्

श्वश्रूर्जायायामाता गृहगतं कितवं द्वेष्टि निंदतीत्यर्थः । किंच जाया भार्यापरुणद्धि निरु- णद्धि । अपिच नाथितोयाचमानः कितवः धनं मर्डितारं धनदानेन सुखयितारं नविंदते न लभते । इत्थं बुद्द्याविमृशत्वान्नाहं जरतोबृद्धस्य व स्र्यस्य वस्नं मूल्यं तदर्हस्याश्व्स्येव कितवस्य भोगं न विंदामि न लभे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः