यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः ।
न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥
यत् । आ॒ऽदीध्ये॑ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्ऽभ्यः॑ । अव॑ । हीये॑ । सखि॑ऽभ्यः ।
निऽउ॑प्ताः । च॒ । ब॒भ्रवः॑ । वाच॑म् । अक्र॑त । एमि॑ । इत् । ए॒षा॒म् । निः॒ऽकृ॒तम् । जा॒रिणी॑ऽइव ॥
यद्यदाहमादीध्ये ध्यायामि तदानीं एभिरक्षैः न दविषाणि न दविषाणि न दूषये न परितपामि यद्वा न दविषाणि न देविष्याणीत्यर्थः । न द्वेषये परायद्भ्यः स्वयमेव पराग- च्छद्भ्यः सखिभ्यः सखिभूतेभ्यः कितवेभ्योवहीये अवहितोभवामि नाहं प्रथममक्षान् विसृ जामीति । किंच बभ्रवोबभ्रुवर्णाअक्षाः न्युप्ताः कितवैरवक्षिप्ताः संतोवाचमक्रत शब्दं कुर्वंति तदा संकल्पं परित्यज्य अक्षव्यसनेनाभिभूयमानोहमेषामक्षाणां निष्कृतं स्थानं जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी संकेतस्थानं याति तद्वदेमीत् गच्छाम्येव ॥ ५ ॥