मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् ८

संहिता

त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा ।
उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥

पदपाठः

त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा ।
उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒ति॒ ॥

सायणभाष्यम्

एषामक्षाणां त्रिपंचाशः त्र्यधिकपंचाशत्संख्याकोव्रातः संघः क्रीळति अस्फारे विहरति अक्षिकाः प्रायेण तावद्भिरक्षैर्दीव्यंति हि । तत्रदृष्टांतः—सत्यधर्मा सविता सर्वस्य जगतः प्रेरकः सूर्योदेवइव यथा सविता देवोजगति विहरति तद्वदक्षाणां संघआस्फारे विहरतीत्य- र्थः । किंच उग्रस्य चित् कूरस्यापि मन्यवे क्रोधाय एते अक्षाः न नमंते न प्रह्वीभवंति न वशे वर्तंते तं नमयंतीत्यर्थः । राजा चित् जगतईश्वरोपि एभ्योनमइत् नमस्कारमेव देवनवेलायां कृणोति नावज्ञां करोतीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः