मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् १०

संहिता

जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑त॒ः क्व॑ स्वित् ।
ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥

पदपाठः

जा॒या । त॒प्य॒ते॒ । कि॒त॒वस्य॑ । ही॒ना । मा॒ता । पु॒त्रस्य॑ । चर॑तः । क्व॑ । स्वि॒त् ।
ऋ॒ण॒ऽवा । बिभ्य॑त् । धन॑म् । इ॒च्छमा॑नः । अ॒न्येषा॑म् । अस्त॑म् । उप॑ । नक्त॑म् । ए॒ति॒ ॥

सायणभाष्यम्

क्वचित् क्वापि चरतोनिर्वेदाद्गच्छतः कितवस्य जाया भार्या हीना परित्यक्ता सती त- प्यते वियोगसंतापेन संतप्ता भवति माता जनन्यपि पुत्रस्यापि क्वापि चरतः कितवस्य संबंधाद्धीना तप्यते पुत्रशोकेन संतप्ता भवति । ऋणावा अक्षपराजयात् ऋणवान् कितवः सर्वतोबिभ्यत् धनं स्तेयजनितं इच्छमानः कामयमानः अन्येषां ब्राह्मणादीनां अस्तं गृहम् । अस्तं पस्त्यमिति गृहनामसु पाठात् । नक्तं रात्रावुपैति चौर्यार्थमुपगच्छति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः