मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् ११

संहिता

स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् ।
पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥

पदपाठः

स्त्रिय॑म् । दृ॒ष्ट्वाय॑ । कि॒त॒वम् । त॒ता॒प॒ । अ॒न्येषा॑म् । जा॒याम् । सुऽकृ॑तम् । च॒ । योनि॑म् ।
पू॒र्वा॒ह्णे । अश्वा॑न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते॑ । वृ॒ष॒लः । प॒पा॒द॒ ॥

सायणभाष्यम्

कितवं कितवोविभक्तिव्यत्ययः अन्येषां स्वव्यतिरिक्तानां पुरुषाणां जायां जायाभूतां स्त्रियं नारीं सुखेन वर्तमानां सुकृतं सुष्ठु कृतं योनिं गृहं दृष्ट्वा मज्जाया दुःखिता गृहं चासंस्कृतमिति ज्ञात्वा तताप तप्यते पुनः पूर्वाह्णे प्रातःकाले बभ्रून् बभ्रूवर्णानश्वान् व्या- पकानक्षान् युयुजे युनक्ति पुनश्च वृषलोवृषलकर्मा सकितवोरात्रावग्नेरंते समीपे पपाद शीतार्तः सन् शॆते ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः