मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् १२

संहिता

यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ ।
तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥

पदपाठः

यः । वः॒ । से॒ना॒ऽनीः । म॒ह॒तः । ग॒णस्य॑ । राजा॑ । व्रात॑स्य । प्र॒थ॒मः । ब॒भूव॑ ।
तस्मै॑ । कृ॒णो॒मि॒ । न । धना॑ । रु॒ण॒ध्मि॒ । दश॑ । अ॒हम् । प्राचीः॑ । तत् । ऋ॒तम् । व॒दा॒मि॒ ॥

सायणभाष्यम्

हेअक्षावोयुष्माकं महतोगणस्य संघस्य योक्षः सेनानीर्नेता बभूब भवति व्रातस्य च गणव्रातयोरल्पोभेदः राजेश्वरः प्रथमोमुख्योबभूव तस्माअक्षाय कृणोम्यहं अंजलिं करोमि अतःपरं धना धनान्यक्षार्थं अहं न रुणध्मि न संपादयामीत्यर्थः । एतदेव दर्शयति—अहं दशसंख्याकाअंगुलीः प्राचीः प्राङ्मुखीः करोमि तदेतदहं ऋतं सत्यमेव वदामि नानृतं ब्रवीमित्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः