मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३४, ऋक् १४

संहिता

मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु ।
नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥

पदपाठः

मि॒त्रम् । कृ॒णु॒ध्व॒म् । खलु॑ । मृ॒ळत॑ । नः॒ । मा । नः॒ । घो॒रेण॑ । च॒र॒त॒ । अ॒भि । धृ॒ष्णु ।
नि । वः॒ । नु । म॒न्युः । वि॒श॒ता॒म् । अरा॑तिः । अ॒न्यः । ब॒भ्रू॒णाम् । प्रऽसि॑तौ । नु । अ॒स्तु॒ ॥

सायणभाष्यम्

हे अक्षाः यूयं मित्रं कृणुध्वं अस्मासु मैत्रीं कुरुत खल्विति पूरणः । नोस्मान्मृळत सु- खयत च नोस्मान् धृष्णु धृष्णुना तृतीयार्थे प्रथमा घोरेणासह्येन माभिचरत मागच्छत । किंच वोयुष्माकं मन्युः क्रोधःअरातिः अस्माकं शत्रुः नुक्षिप्रं निविशतां अस्मच्छत्रुषु तिष्ठ- तु नोस्माकं अन्यः शत्रुः कश्चिद्बभ्रूणां बभ्रुवर्णानां युष्माकं प्रसितौ दृढबंधने नु क्षिप्रमस्तु भवतु ॥ १४ ॥

अबुध्रमिति चतुर्दशर्चं षष्ठं सूक्तं धनाकपुत्रस्य लुशस्यार्षं इदमुत्तरं चवैश्वदेवं त्रयोदशी चतुर्दश्यौ त्रिष्टुभौ शिष्टाद्वादश जगत्यः । तथाचानुक्रांतं—अबुध्रं लुशोधानाकोवैश्वदेवं तु द्वि- त्रिष्टुबंतं त्विति । गतः सूक्तविनियोगः । एकादशिनस्य वैश्वदेवस्य पशोर्वपायागस्यानुवाक्या विश्वेअद्येत्येषा । सूत्रितंच—विश्वेअद्यमरुतोविश्वऊत्यानोदेवानामुपवेतुशंसइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः