मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ४

संहिता

इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु ।
आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

इ॒यम् । नः॒ । उ॒स्रा । प्र॒थ॒मा । सु॒ऽदे॒व्य॑म् । रे॒वत् । स॒निऽभ्यः॑ । रे॒वती॑ । वि । उ॒च्छ॒तु॒ु ।
आ॒रे । म॒न्युम् । दुः॒ऽवि॒दत्र॑स्य । धी॒म॒हि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

रेवती धनवती प्रथमा मुख्या इयं उस्रा पापानामुत्सारिणी उषाः सुदेव्यं शोभनदेवा र्हं रेवद्धनवत् प्रधानकालयागत्वं सनिभ्योभजमानेभ्योनोस्मभ्यं प्रयच्छंती व्युच्छतु तमांसि विवासयतु । किंच दुर्विदत्रस्य दुर्धनस्य पुरुषस्य मन्युं क्रोधं आरे दूरे धीमहि निधीमहि । सिद्धमन्यत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः