मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् १०

संहिता

आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् ।
इन्द्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

आ । नः॒ । ब॒र्हिः । स॒ध॒ऽमादे॑ । बृ॒हत् । दि॒वि । दे॒वान् । ई॒ळे॒ । सा॒दय॑ । स॒प्त । होतॄ॑न् ।
इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

नोस्माकं बृहत् बृहति महति दिवि दीप्ते सधमादे सह माद्यंति देवायत्र तस्मिन् ब- र्हिर्बर्हिषि यज्ञे सप्त सप्तसंख्याकान् होतॄन् वषट्कर्तॄन् इंद्रमिंद्रं च भगं च देवानितरानपि यष्टव्यान् देवान् हे अग्ने त्वमासादय । अग्नेराभिमुख्यकरणमिहाद्यदैव्यंजनंबर्हिरासादयावसो इत्येवमादिमंत्रैरवगम्यते । तत्र त्वदासादितांस्तानिंद्रादीन् देवानहं सातये धनलाभाय ईळे स्तौमि । सिद्धमन्यत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः