मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ११

संहिता

त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः ।
बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता॑तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ ।
बृह॒स्पति॑म् । पू॒षण॑म् । अ॒श्विना॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे आदित्याः येस्माभिराहूताः ते यूयं सर्वतातये यज्ञार्थमागतागच्छत । आगत्य च हे सजोषसः संगतायूयं नोस्माकं वृधे वर्धनाय यज्ञं प्रति अवत रक्षत । वयं च बृहस्पतिं पूषणं चाश्विनाश्विनौच भगं भगाख्यं देवं च समिधानं सम्यक् दीप्तमग्निं च स्वस्ति सर्वप्रकाराविनाशमीमहे याचामहे ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः