मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् १२

संहिता

तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्य॑म् ।
पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

तत् । नः॒ । दे॒वाः॒ । य॒च्छ॒त॒ । सु॒ऽप्र॒वा॒च॒नम् । छ॒र्दिः । आ॒दि॒त्याः॒ । सु॒ऽभर॑म् । नृ॒ऽपाय्य॑म् ।
पश्वे॑ । तो॒काय॑ । तन॑याय । जी॒वसे॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे आदित्यादेवाः यूयं सुप्रवाचनं अत्यंतं प्रशस्तं सुभरं सुसमृद्धंन्रुपाय्यं नृणां रक्षकं तदस्मदभिलषितं छर्दिर्गृहं नोस्माकं पश्वे पशवे तोकाय पुत्राय तनयाय पौत्राय च जीवसे जीवनार्थं यच्छत दत्त । सिद्धमन्यत् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः